भागीरथीगद्यं अथ भागीरथीगद्यं श्रीशुक उवाच तत्र भगवतः साक्षाद् यज्ञलिंगस्य विष्णोर्विक्रमतो | वामपा-दांगुष्ठनखनिर्भिन्नोर्ध्वांडकटाहविवरेण | अंतःप्रविष्टा या बाह्यजलधारा | तच्चरणपंकजावनेजनारुणकिंजल्कोपरंजित-अखिलजगदघमलापहा | उपस्पर्शनामला साक्षात् भगवत्पदीत्य-नुपलक्षितवचोभिरभिधीयमाना| अतिमहता कालेन युग-सहस्त्रोपलक्षणेन दिवो मूर्धन्यवततार यत्तद्विष्णुपदमाहुः || यत्र ह वाव वीरव्रत औत्तानपादिः परमभागवतः| अस्मत्कुल-देवताचरणारविंदोदकं इति| यां अनुसवनमुत्कृष्यमाण-भगवद्भक्तियोगेन दृढं क्लिद्यमानांतर्हृदय| औत्कंठ्यविवशामीलितलोचनयुगलकुड्मलविगलितामलबाष्पकलया| अभिव्यज्यमान-रोमपुलककुलक| अधुनापि परमादरेण शिरसा बिभर्ति ||1|| तत्र सप्तऋषयस्तत्प्रभावज्ञा ननु (इयं नु) तपस आत्यंतिकी सिद्धिरेतावतीति | भगवति सर्वात्मनि वासुदेवे अनवरतभक्तियोग-लाभेनैव | उपेक्षितान्यार्थात्मगतयो| मुक्तिमिवागतां मुमुक्षवः सबहुमानमेनामद्यापि जटाजूटैरुद्वहंति ||2|| ततः अनेकसहस्रकोटिविमानानीकसंकुलदेवयानेन अवतरंती| इंदुमंडलमाप्लाव्य ब्रह्मसदने निपतति| तत्र चतुर्धा भिद्यमाना चतुर्भिर्नामभिश्चतुर्दिशमभिस्यंदती| नदनदीपतिमेवाभिनिविशते| ‘सीता अलकनंदा चक्षुः भद्रा’ इति ||3|| सीता तु ब्रह्मसदनात् केसराद्रिशिखरेभ्योऽधोऽधःपतंती< गंधमादनमूर्ध्नि पतित्वांतरेण भद्राश्वं वर्षं प्राच्यां दिशि क्षारसमुद्रं प्रविशति| एवं माल्यवच्छिखरान्निष्पतंती अनुपरतवेगा| केतुमालमभि चक्षुः प्रतीच्यां दिशि सरित्पतिं प्रविशति | भद्रा चोत्तरतो मेरुशिरसो निपतिता गिरिशिखरात् गिरिशिखरमतिहाय| शृंगवतः शृंगादभिस्यंदमाना उत्तरांस्तु कुरून् अतिक्रम्य | उदीच्यां दिशि लवणार्णवं प्रविशति | तथैवालकनंदा दक्षिणेन तु ब्रह्मसदनाद् बहूनि गिरिकूटान्यतिक्रम्य| हेमकूटहिमकूटानि अतितररभसरंहसा लुठंती| भारतमेव वर्षं दक्षिणस्यां दिशि जलधिं प्रविशति || 4|| || इति भागवते पंचमस्कंधे भागीरथीगद्यं ||