अवतारत्रयस्तोत्रम् अथ अवतारत्रयस्तोत्रम् हनूमानंजनासूनूर्वायुपुत्रो महाबलः | रामेष्टः ल्गुणसखः पिंगाक्षोऽमितविक्रमः || १|| उदधिक्रमणश्चैव सीतासंदेशहारकः | लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा || २|| द्वादैशातानि नामानि कपींद्रस्य महात्मनः| स्वापकाले प्रबोधे च यात्राकाले च यः पठेत् | ३|| न भयं विद्यते तस्य सर्वत्र विजयी भवेत् | मारुतिः पांडवो भीमो गदापाणिवृकोदरः || ४|| कौंतेयः कृष्णदयितो भीमसेनो महाबलः | जरासंधांतको वीरो दुःशासनविनाशनः || ५|| द्वादैशातनि नामानि भीमस्य नियतः पठन् | आयुरारोग्यमैश्वर्यमरिपक्षक्षयं लभेत् || ६|| पूर्णप्रज्ञो ज्ञानदाता मध्वो ध्वस्तदुरागमाः | तत्त्वज्ञो वैष्णवाचार्यो व्यासशिष्यो यतीश्वरः || ७|| सुखतीर्थाभिदानश्च जितवादी जितेंद्रियः | आनंदतीर्थसन्नाम्नामेवं द्वादशकं जपेत् || ८|| लभते वैष्णवीं भक्तिं गुरुभक्तिसमुद्भवाम् || || इति अवतारत्रयस्तोत्रम् ||