अथ अवतारत्रयस्तोत्रम्
हनूमानंजनासूनूर्वायुपुत्रो महाबलः |


रामेष्टः ल्गुणसखः पिंगाक्षोऽमितविक्रमः || १||


उदधिक्रमणश्चैव सीतासंदेशहारकः |


लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा || २||


द्वादैशातानि नामानि कपींद्रस्य महात्मनः|


स्वापकाले प्रबोधे च यात्राकाले च यः पठेत् | ३||


न भयं विद्यते तस्य सर्वत्र विजयी भवेत् |


मारुतिः पांडवो भीमो गदापाणिवृकोदरः || ४||


कौंतेयः कृष्णदयितो भीमसेनो महाबलः |


जरासंधांतको वीरो दुःशासनविनाशनः || ५||


द्वादैशातनि नामानि भीमस्य नियतः पठन् |


आयुरारोग्यमैश्वर्यमरिपक्षक्षयं लभेत् || ६||


पूर्णप्रज्ञो ज्ञानदाता मध्वो ध्वस्तदुरागमाः |


तत्त्वज्ञो वैष्णवाचार्यो व्यासशिष्यो यतीश्वरः || ७||


सुखतीर्थाभिदानश्च जितवादी जितेंद्रियः |


आनंदतीर्थसन्नाम्नामेवं द्वादशकं जपेत् || ८||


लभते वैष्णवीं भक्तिं गुरुभक्तिसमुद्भवाम् ||


|| इति अवतारत्रयस्तोत्रम् ||